भगवतीयं नामांशत्वेन सुन्दरीतिपदं स्वीकुर्वती सुन्दरीति प्रदर्शयितुं तत्सुतानां तत्स्मृतिप्रयोजकसंस्कारदार्ढ्यहेतवे परप्रेमस्वरूपभक्तिविवर्धनस्य रूपादिगुणाधीनत्वेऽविवादादेतच्चित्रं तस्याः। भगवती भवतु प्रसन्ना तत्सुताश्च हर्षिताः।
इति
॥ललितालालितः॥
Related
यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥
You must log in to post a comment.