Oops! It appears that you have disabled your Javascript. In order for you to see this page as it is meant to appear, we ask that you please re-enable your Javascript!

shrI-yantra on shiva-li~Nga

This is shrI-chakrarAja-li~Ngeshvara(श्रीचक्रराजलिङ्गेश्वरः). It’s in a temple near karNATaka-ghAT in Varanasi. People claim that it was established by shrI-bhAskara-rAya, a great shrI-vidyA-upAsaka. People also said that teacher of shrI-muttu-svAmI-dIxitAr lived here.

This slideshow requires JavaScript.

 

There is a similar li~Nga on pa~ncha-ga~NgA-ghATa near ma~NgalA-gaurI-temple. That is known as pAtAleshvara. People claim that this was also established by bhAskara-rAya, although I’ve not yet found any convincing proof.

 

This slideshow requires JavaScript.

There is another such li~Nga inside annpUrNA temple. There is no doubt about it’s original worshiper. It was bhAskara-rAya.
I was not able to get pictures of yantreshvara. I’ll try to get that.

अत्रैद्बोद्ध्यं यत् – यद्यपि एतानि त्रीण्यपि लिङ्गानि भास्कररायस्थापितत्वेन प्रसिद्धानि तथापि पातालेश्वर-चक्रराजलिङ्गेश्वरयोरस्ति महान्भेदः । तथा हि – नवयोनयः सर्व्वा एव पातालेश्वरस्य शिरसि , पद्मद्वयं भूपुरञ्च लिङ्गस्य स्तम्भे ; चक्रराजलिङ्गेश्वरस्य तु नवयोनेरपि भागः स्तम्भपर्य्यन्तं गच्छति , पद्मद्वये च लिङ्गसमाप्तिः , भूपुरं तु योनिपीठे ।
पातालेश्वरस्य शिरसि वलयता न तथा यथा श्रीचक्रराजलिङ्गेश्वरस्य ।
यन्त्रेश्वरस्य तु प्रायस्सर्व्वांशे पातालेश्वरतुल्यता । यन्त्रेेश्वरपातालेश्वरयोरत्यन्तसादृश्यादिदं वक्तुं शक्यते यत् तयोस्स्थापको जन एक एव वा एकसम्प्रदायागतो वा इति ।
श्रीचक्रराजलिङ्गेश्वरस्तु विजातीयो भाति ।

यन्त्रस्य शिवलिङ्गे स्थापनं तु त्रिपुरयैवोदिष्टो रहस्यस्य माहात्म्यखण्डे –

लिङ्गपूजनमात्रेण प्रीताहं वाञ्छितार्थदा ॥
विधिना पूजिता लिङ्गे येनाहं भक्तिभावतः ।
तस्मै ददामि सालोक्यमलभ्यमन्यथा जनैः ॥
यस्तु लिङ्गे यन्त्रराजं विलिख्य पूजयेच्च माम् ।
तत्फलं चक्रराजार्चाकोटिकोटिगुणं भवेत् ॥
लिङ्गमूर्द्ध्नि कृतं यन्त्रं सर्वयन्त्रोत्तमोत्तमम् ।
तत्र पूजनमात्रेण पूजिताः सर्वदेवताः ॥
यस्मात्त्रिमूर्त्तिरूपं तद् देवा मूर्त्तित्रयोद्भवाः ।

प्रथमः श्लोकस्तावन्न लिङ्गे यन्त्रस्थापनं ब्रूते , किन्तु शिवाराध्यायास्त्रिपुराया अर्चनमात्रम् । द्वितीयस्य प्रथमार्द्धे तत्फलकथनम् ।
द्वितीयश्लोकस्यापरार्द्धे अपरस्य च पूर्व्वार्द्धे लिङ्गाधिकरणकयन्त्रराजस्थितदेव्याः पूजनं महत्फलदत्वेन विहितम् ।
तृतीयापरार्द्धे लिङ्गशिरसि लिखितस्य यन्त्रस्य सर्व्वयन्त्रेभ्य उत्कृष्टत्वं बोधितम् ।
अग्रे तु लिङ्गपूजनस्य फलकथनम् ।
इति विषयभेदः ।

तत्र प्रथमं लिङ्गे यन्त्रलेखनं सामान्येनोक्त्वा तच्छिरसि तल्लेखनस्याग्रे विशेषेणोक्तत्वात् , भिन्नफलादर्शनेनैकप्रकरणस्थत्वात् च , लिङ्गस्य मूर्द्ध्न्येव श्रीचक्रराजस्य लेखनमुचितं ; न तु स्तम्भादिषु ।यावद्विशेषप्रमाणानुपलम्भस्तावन्नान्येषां लेखनानां प्रामाणिकत्वम् इति तावत्स्मृत्यधिकरणानुकूलमननुष्ठानमेव – इति मम भाति ।

कथञ्चित् लिङ्गे यन्त्रराजलेखनं यथाकथञ्चिल्लेखनाभिप्रायेण इति दृष्टाणां यन्त्राणां प्रामाणिकत्वोपपत्तावपि , शिरस्येव लिखितस्यैव सर्व्वोत्कृष्टता इत्यपि द्रष्टव्यम् ।

तत्र केचन शिवशक्त्यैक्यरूपोयं विग्रह इति वदन्ति । तन्न , शिवस्यात्र देव्याधाराधारमात्रत्वात् । न हि अत्र आधारभूतस्य शिवस्य देवीस्वामित्वं किन्तु तत्सेवकत्वमेव , रहस्यमाहात्म्यात् । शिवशक्त्यैक्यभासने तु श्रीचक्रमेवालम् । – इत्यपि ज्ञेयम् ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me