श्रीमहामृत्युञ्जयध्यानम्

This slideshow requires JavaScript.

 

Pictures taken from Internet.

हस्ताभ्यां कलशद्वयामृतरसैराप्लावयन्तं शिरो

द्वाभ्यां तौ दधतं मृगाक्षवलये द्वाभ्यां वहन्तं परम् ।

अङ्कन्यस्तकरद्वयामृतघटं कैलासकान्तं शिवं

स्वच्छाम्भोजगतं नवेन्दुमुकुटं देवं त्रिनेत्रं भजे ॥

 

– इति श्रीशिवध्यानम् अज्ञातकर्त्तृकम् । श्रीमहामृत्युञ्जयध्यानम् इत्येव प्रसिद्धोयं श्लोकः ।

अयं विशेषः – श्लोको यद्यप्यष्टभुजमेव शिवं विषयीकरोति , तथापि भ्रमात् हरद्वारस्थविग्रहे दोष्णां षट्कमेव । – इति ।