lalitA-mahAtripurasundarI-pictures-3

lalitA mahAtripurasundarI

कवित्वाभावान्मूकतामापन्नां परिहृत्य हृदयनिगूढो भाव उमानन्दनाथकुतूहलास्वादव्याजेन प्रकटीक्रियते –

अपि पुनरुदयेन्मे वासरस्तादृशोऽस्मिन्नपि पुनरुपयायात्तादृगेको मुहूर्त: ।
अपि पुनरिह च स्यात्स क्षणो यत्र मज्जाम्यखिलभुवनमातुर्दर्शनानन्दसिन्धौ ॥
इति ।

॥ अचलतपसामेकः पाकः प्रसूनशरासनप्रतिभटमनोहारी नारीकुलैकशिखामणिः ॥

– इति मूकेनापि वर्णिता प्रार्थ्यते देवता

॥ कुचभरनताः कुर्युर्भद्रं कुरङ्गविलोचनाः कलितकरुणाः काञ्चीभाजः कपालिमहोत्सवाः ॥

इति ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

Leave a Reply